|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.233. अध्यायः 233
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महेश्वरेणोमांप्रति मांसभक्षणाभक्षणयोर्दोषगुणकथनम्॥ 1 ॥ गुरुप्रशंसनपूर्वकं तत्पूजादिफलकथनम्॥ 2 ॥ तथा तीर्थस्नानोपवासादिफलकथनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भक्षयन्त्यपरे मांसं वर्जयन्त्यपरे विभो।
तन्मे वद महादेव भक्ष्याभक्ष्यविनिर्णयम्॥ 13-233-1(90572)
महेश्वर उवाच। 13-233-2x(7634)
मांसस्य भक्षणे दोषो यश्चास्याभक्षणे गुणः।
तदहं कीर्तयिष्यामि तन्निबोध यथातथम्॥ 13-233-2(90573)
इष्टं दत्तमधीतं च क्रतवश्च सदक्षिणाः।
अमांसभक्षणस्यैव कलां नार्हन्ति षोडशीम्॥ 13-233-3(90574)
आत्मार्थं यः परप्राणान्हिस्यात्स्वादुफलेप्सया।
व्यालगृध्रसृगालैश्च राक्षसैश्च समस्तु सः॥ 13-233-4(90575)
यो वृथा नित्यमांसाशी स पुमानधमो भवेत्।
ततः कष्टतरं नास्ति स्वयमाहृत्य भक्षणात्॥ 13-233-5(90576)
स्वमांसं परमांसेन यो वर्धयितुमिच्छति।
उद्विग्नवासं लभते यत्रयत्रत्रोपजायते॥ 13-233-6(90577)
संछेदनं स्वमांसस्य यथा सञ्जनयेद्रुजम्।
तथैव परमांसेऽपि वेदितव्यं विजानता॥ 13-233-7(90578)
यस्तु सर्वाणि मांसानि यावज्जीवं न भक्षयेत्।
स स्वर्गे विपुलं स्थानं लभते नात्र संशयः॥ 13-233-8(90579)
यत्तु वर्षशतं पूर्णं तप्यते परमं तपः।
यच्चापि वर्जयेन्मांसं सममेतन्न वा समम्॥ 13-233-9(90580)
न हि प्राणैः प्रियतमं लोके किञ्चन विद्यते।
तस्मात्प्राणिदया कार्या यथात्मनि तथा परे॥ 13-233-10(90581)
सर्वे यज्ञा न तत्कुर्युः सर्वे देवाश्च भामिनि।
यो मांसरसमास्वाद्य पुनर्मासं विवर्जयेत्॥ 13-233-11(90582)
इत्येवं मुनयः प्राहुर्मांसस्याभक्षणे गुणाः।
एवं बहुगुणं देवि नृणां मांसविवर्जनम्॥ 13-233-12(90583)
न शक्नुयाद्यदाऽतीय त्यक्तं मांसं कथञ्चन।
पुण्यं तन्मासमात्रं वा वर्जनीयं विशेषतः॥ 13-233-13(90584)
न शक्नुयादपि तथा कौमुदीमासमेव च।
जन्मनक्षत्रतिथिषु सदा पर्वसु रात्रिषु।
वर्जनीयं तथा मांसं परत्रि हितमिच्छता। 13-233-14(90585)
अशक्तः कारणान्मर्त्यो भोक्तुमिच्छेद्विधिं शृणु।
अनेनि खादन्विधिना कलुषेण न लिप्यते॥ 13-233-15(90586)
सूनायां च गतप्राणान्क्रीत्वा न्यायेन भामिनि।
ब्राह्मणातिथिपूजार्थं भोक्तव्यं हितमिच्छता॥ 13-233-16(90587)
भैषज्यकारणाद्व्याधौ खादन्पापैर्न लिप्यते।
पितृशेषं तथैवाश्नन्मांसं नाशुभमृच्छति॥ 13-233-17(90588)
उमोवाच। 13-233-18x(7635)
गुरुपूजा कथं देव क्रियते धर्मचारिभिः॥ 13-233-18(90589)
महेश्वर उवाच। 13-233-19x(7636)
गुरुपूजां प्रवक्ष्यामि यथावत्तव शोभने।
कृतज्ञानां परो धर्म इति वेदानुशासनम्॥ 13-233-19(90590)
तस्मात्स्वगुरवः पूज्यास्ते हि पूर्वोपकारिणः।
गुरूणां च गरीयांसस्त्रयो लोकेषु पूजिताः॥ 13-233-20(90591)
उपाध्यायः पिता माता संपूज्यास्ते विशेषतः।
ये पितुर्भ्रातरो ज्येष्ठा ये च तस्यानुजास्तथा।
पितुः पिता च सर्वे ते पूजनीयाः पिता तथा॥ 13-233-21(90592)
मातुर्या भगिनी ज्येष्ठा मातुर्या च यवीयसी।
मातामही च धात्री च सर्वास्ता मातरः स्मृताः॥ 13-233-22(90593)
उपाध्यायस्य यः पुत्रो यश्च तस्य भवेद्गुरुः।
ऋत्विग्गुरुः पिता चेति गुरवः सम्प्रकीर्तिताः॥ 13-233-23(90594)
ज्येष्ठो भ्राता नरेन्द्रश्च मातुलः श्वळशुरस्तथा।
भयत्राता च भर्ता च गुरवस्ते प्रकीर्तिताः॥ 13-233-24(90595)
इत्येष कथितः साध्वि गुरूणां सर्वसङ्ग्रहः।
अनुवृत्तिं च पूजां च तेषामपि निबोध मे॥ 13-233-25(90596)
आराध्या मातापितरावुपाध्यायस्तथैव च।
कथंचिन्नावमन्तव्या नरेण हितमिच्छता॥ 13-233-26(90597)
येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः।
येन प्रीणाति चेन्माता प्रीताः स्युर्देवमातरः॥ 13-233-27(90598)
ये प्रीणात्युपाध्यायो ब्रह्मा तेनाभिपूजितः।
अप्रीतेषु पुनस्तेषु नरो नरकमेति हि॥ 13-233-28(90599)
गुरूणां वैरनिर्बन्धो न कर्तव्यः कथञ्चन।
नरः स्वगुरुमप्रीत्या मनसाऽपि न गच्छति॥ 13-233-29(90600)
न ब्रूयाद्विप्रियं तेषामनिष्टं न प्रवर्तयेत्।
विगृह्य न वदेत्तेषां समीपे स्पर्धया क्वचित्॥ 13-233-30(90601)
यद्यदिच्छन्ति ते कर्तुमस्वतन्त्रस्तदाचरेत्।
वेदानुशासनसमं गुरुशासनमिष्यते॥ 13-233-31(90602)
कलहांश्च विवादांश्च गुरुभिः सह वर्जयेत्।
कैतवं परिहासांश्च मन्युकामाश्रयाः कथाः॥ 13-233-32(90603)
गुरूणां योऽनहंवादी करोत्याज्ञामतन्द्रितः।
न तस्मात्सर्वमर्त्येषु विद्यते पुण्यकृत्तमः॥ 13-233-33(90604)
असूयामपवादं च गुरूणां परिवर्जयेत्।
तेषां प्रियहितान्वेषी भूत्वा परिचरेत्सदा॥ 13-233-34(90605)
न तद्यज्ञफलं कुर्यात्तपो वाऽऽचरितं महत्।
यत्कुर्यात्पुरुषस्येह गुरुपूजा सदा कृता॥ 13-233-35(90606)
अनुवृत्तेर्विना धर्मो नास्ति सर्वाश्रमेष्वपि।
तस्मात्क्षमावृतः क्षान्तो गुरुवृत्तिं समाचरेत्॥ 13-233-36(90607)
स्वमर्थं स्वशरीरं च गुर्वर्थे संत्यजेद्बुधः।
विवादं धनहेतोर्वा मोहाद्वा तैर्न रोचयेत्॥ 13-233-37(90608)
ब्रह्मचर्यमहिंसा च दानानि विविधानि च।
गुरुभिः प्रतिषिद्धस्य सर्वमेतपार्थकम्॥ 13-233-38(90609)
उपाध्यायं पितरं मातरं च।
येऽभिद्रुह्युर्मनसा कर्मणा वा।
तेषां पापं भ्रूणहत्याविशिष्टं
तेभ्यो नान्यः पापकृदस्ति लोके॥ 13-233-39(90610)
उमोवाच। 13-233-40x(7637)
उपवासविधिं तत्र तन्मे शंसितुमर्हसि॥ 13-233-40(90611)
महेश्वर उवाच। 13-233-41x(7638)
शरीरमलशान्त्यर्थमिन्द्रियोच्छोषणाय च।
एकभुक्तोपवासैस्तु धारयन्ते व्रतं नराः॥ 13-233-41(90612)
लभन्ते विपुलं धर्मं तथाऽऽहारपरिक्षयात्।
बहूनामुपरोधं तु न कुर्यादात्मकारणात्॥ 13-233-42(90613)
जीवोपघातं च तथा स जीवन्धन्य इष्यते।
तस्मात्पुण्यं लभेन्मर्त्यः स्वयमाहारकर्शनात्।
तद्गृहस्थैर्यथाशक्ति कर्तव्यमिति निश्चयः॥ 13-233-43(90614)
उपवासार्दिते काये आपदर्शं पयो जलम्।
भुञ्जन्न प्रतिघाती स्याद्ब्राह्म्णाननुमान्य च॥ 13-233-44(90615)
उमोवाच। 13-233-45x(7639)
ब्रह्मचर्यं कथं देव रक्षितव्यं विजानता॥ 13-233-45(90616)
महेश्वर उवाच। 13-233-46x(7640)
तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता॥ 13-233-46(90617)
ब्रह्मचर्यं परं शौचं ब्रह्मचर्यं परं तपः।
केवलं ब्रह्मचर्येणि प्राप्यते परमं पदम्॥ 13-233-47(90618)
सङ्कल्पाद्दर्शनाच्चैव तद्युक्तवचनादपि।
संस्पर्शादथ संयोगात्पञ्चधा रक्षितं व्रतम्॥ 13-233-48(90619)
व्रतवद्धारितं चैव ब्रह्मचर्यमकल्मषम्।
नित्यं संरक्षितं तस्य नैष्ठिकानां विधियते।
तदिष्यते गृहस्थानां कालमुद्दिश्य कारणम्॥ 13-233-49(90620)
जन्मनक्षत्रयोगेषु पुण्यवासेषु पर्वसु।
देवताधर्मकार्येषु ब्रह्मचर्यव्रतं चरेत्॥ 13-233-50(90621)
ब्रह्मचर्यव्रतफलं लभेद्दारव्रती सदा।
शौचमायुस्तथाऽऽरोग्यं लभ्यते ब्रह्मचारिभिः॥ 13-233-51(90622)
उमोवाच। 13-233-52x(7641)
तीर्थचर्याव्रतं देव क्रियते धर्मकाङ्क्षिभि।
कानि तीर्थानि लोकेषु तन्मे शंसितुमर्हसि॥ 13-233-52(90623)
महेश्वर उवाच। 13-233-53x(7642)
हन्त ते कथयिष्यामि तीर्थस्नानविधिं प्रिये।
पावनार्थं च शौचार्थं ब्रह्मणा निर्मितं पुरा॥ 13-233-53(90624)
यास्तु लोके महानद्यस्ताः सर्वास्तीर्थसंज्ञिताः।
तासां प्राक्स्रोतसः श्रेष्ठाः सङ्गमश्च परस्परम्।
तासां सागरसंयोगो वरिष्ठश्चेति विद्यते॥ 13-233-54(90625)
तासामुभयतः कूलं तत्रतत्र मनीषिभिः।
देवैर्वा सेवितं देवि तत्तीर्थं परमं स्मृतम्॥ 13-233-55(90626)
समुद्रश्च महातीर्थं पावनं परमं शुभम्।
तस्य कूलगतास्तीर्था महद्भिश्च समाप्लुताः॥ 13-233-56(90627)
स्रोतसकां पर्वताना च जोषितानां महर्षिभिः।
अपि कूपं नटाकं वा सेवितुं मुनिभिः प्रिये॥ 13-233-57(90628)
तत्तु तीर्थमिति ज्ञेयं प्रभावात्तु तपस्विनाम्।
तदा प्रभृति तीर्थत्वं लेभे लोकहिताय वै॥ 13-233-58(90629)
एवं तीर्थं भवेद्देवि तस्य स्नानविधिं शृणु॥ 13-233-59(90630)
जन्मना व्रतभूयिष्ठो गत्वा तीर्थानि काङ्क्षया।
उपवासत्रयं कुर्यादेकं वा नियमान्वितः॥ 13-233-60(90631)
पुण्यमासेवते काले पौर्णमास्यां यथाविधि।
बहिरेव शुचिर्भूत्वा तत्तीर्थं मन्मना विशेत्॥ 13-233-61(90632)
त्रिराप्लुत्य जलाभ्यासे दत्त्वा ब्राह्मणदक्षिणाम्।
अभ्यर्च्य देवायतनं ततः प्रायाद्यथागतम्॥ 13-233-62(90633)
एतद्विधानं सर्वेषां तीर्थंतीर्थमिति प्रिये।
समीपतीर्थस्नानात्तु दूरतीर्थं सुपूजितम्॥ 13-233-63(90634)
आदिप्रभृतिशुद्धस्य तीर्थस्नानं शुभं भवेत्।
तपोर्थं पापनाशार्थं शौचार्थं तीर्थगाहनम्॥ 13-233-64(90635)
एवं पुण्येषु तीर्थेषु तीर्थस्नानं शुभं भवेत्।
एतन्नैयमिकं सर्वं सुकृतं कथितं तव॥ ॥ 13-233-65(90636)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मिपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 233 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|